|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.49. अध्यायः 049
Mahabharata - Virata Parva - Chapter Topics
कृपेणार्जुनचरित्रप्रशंसनपूर्वकं कर्णगर्हणम् ॥ 1 ॥ तथा स्वेषु एकैकेनार्जुनस्य दुर्जयत्वकथनपूर्वकं संभूयाभियाननिर्धारणम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-49-0x(3205)(30427)
तस्य तद्वचनं श्रुत्वा नीतिशास्त्रविशारदः।
आचार्यः कुरुवीराणां कृपः शारद्वतोऽब्रवीत् ॥ 4-49-1(30428)
सदैव तव राधेय युद्धे क्रूरतरा मतिः।
नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे ॥ 4-49-2(30429)
नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः ।
तेषां युद्धं सुपापिष्ठं वेदयन्ति पुराविदः ॥ 4-49-3(30430)
देशकालेन संयुक्तं युद्धं विजयदं भवेत्।
हीनकालं तदेवेह अनर्थायोपकल्पते ॥ 4-49-4(30431)
देशे काले च विक्रान्तं कल्याणाय विधीयते।
आनुकूल्येन कार्याणामुत्तरं तु विधीयते ॥ 4-49-5(30432)
भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः।
परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः ॥ 4-49-6(30433)
एको हि शत्रून्समरे समर्थः प्रतिबाधितुम् ।
एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ॥ 4-49-7(30434)
एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् ।
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयम् ॥ 4-49-8(30435)
सैन्धवं वनवासे तु जित्वा कृष्णामथानयत् ।
एकश्च पञ्च वर्षाणि शक्रादस्राण्यशिक्षत ॥ 4-49-9(30436)
एकः सपत्नाञ्जित्वा तु कुरूणामकरोद्यशः ।
एको गन्धर्वराजानं चित्रसेनमरिन्दमः ।
विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् ॥ 4-49-10(30437)
पाञ्चाली श्रीमती प्राप्ता क्षत्रं जित्वा स्वयंवरे ।
आदाय गतवान्पार्थो भवान्क्वनु गतस्तदा ॥ 4-49-11(30438)
तथा निवातकवचाः कालकेयाश्च दानवाः ।
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ॥ 4-49-12(30439)
एकेन हि त्वया कर्ण किं नामेह कृतं पुरा।
एकैकेन यथा तेषां भूमिपाला वशे कृताः ॥ 4-49-13(30440)
इन्द्रोपि हि न पार्थेन संयुगे योद्धुमर्हति ।
यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ॥ 4-49-14(30441)
आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम्।
अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि ॥ 4-49-15(30442)
अथवा कुञ्जरं मत्तमेकमेकचरं वने।
निरङ्कुशं समारुह्य नगरं यातुमिच्छसि ॥ 4-49-16(30443)
समिद्धं पावकं चापि घृतमेदोवसाहुतम्।
घृताक्तश्चीरवासास्त्वं मध्येनोत्सर्तुमिच्छसि ॥ 4-49-17(30444)
आत्मानं यः समाबध्य कण्ठे बद्ध्वा तथा शिलाम् ।
समुद्रं प्रतरेद्दोर्भ्यां तत्र किं कर्ण पौरुषम् ॥ 4-49-18(30445)
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः।
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः ॥ 4-49-19(30446)
अस्माभिरेव निकृतो वर्षाणीह त्रयोदश।
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ॥ 4-49-20(30447)
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् ।
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ॥ 4-49-21(30448)
उत्सृष्टं तूलराशौ तु एकोऽग्निं शमयेत्कथम् ।
सह युद्ध्यामहे पार्थमागतं युद्धदुर्मदम् ॥ 4-49-22(30449)
यत्ता वयं पराक्रान्ता व्यूढानीकाः प्रहारिणः।
युद्धायावस्थितं पार्थमागतं पाकशासनिम् ॥ 4-49-23(30450)
यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः।
षड्रथाः परिकीर्यन्तां वज्रपाणिमिवासुराः ॥ 4-49-24(30451)
द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम्।
सर्वे युद्ध्यामहे पार्थं कर्ण मा साहसं कृथाः ॥ 4-49-25(30452)
न ह्यसंगत्य समरे पार्थं जेष्यामहे वयम्।
संगत्य समरे पार्थं सर्वे जेष्यमाहे वयम् ॥ 26 ॥ ॥ 4-49-26(30453)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-49-6 भारं हीति। यथा रथकारेण दिव्योऽयं मया निर्मितो रथः सुदृढाङ्गः अनेन त्वं देवानपि सर्वथा जेष्यसीत्युक्ते तद्वचसि भारं दत्त्वा देशकालानुकूल्यमनपेक्ष्यैव न व्यवस्यन्ति। योद्धुमेति शेषः। एवं त्वद्वचसि भारं दत्त्वा देशाद्यानुकूल्यमनवेक्ष्य कथमस्माभिर्योद्धव्यम्। तवतु वचनं रथकारवचनवदर्शशून्यमिति भावः ॥ 6 ॥ 4-49-10 एकः संयमिनीं जित्वा इति धo पाठः ॥ 10 ॥ ॥ एकोनपञ्चाशोऽध्यायः ॥ 49 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|